सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑। दो॒षामु॒षास॑मीमहे ॥६॥
supratīke vayovṛdhā yahvī ṛtasya mātarā | doṣām uṣāsam īmahe ||
सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के। व॒यः॒ऽवृधा॑। य॒ह्वी इति॑। ऋ॒तस्य॑। मा॒तरा॑। दो॒षाम्। उ॒षस॑म्। ई॒म॒हे॒ ॥६॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! यथा वयं सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा दोषामुषासमीमहे तथैते यूयमपि याचध्वम् ॥६॥